ॐ भद्रं कर्णेर्भिः शृणुयाम देवा: | भद्रं पश्येमाक्षभिर्यजत्रा: | स्थिरैरंगैस्तुष्टुवांसस्तनूभि: | व्यशेम देवहितं यदायु: ||१|| ॐ स्वस्ति न इंद्रो वृद्धश्रवा: | स्वस्ति न: पूषा विश्ववेदाः | स्वस्तिनस्ताक्षर्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ||२||
ॐ शांति : शांतिः शांति :
हरि ॐ नमस्ते गणपतये || त्वमेव प्रत्यक्षं तत्वमसि || त्वमेव केवलं कर्ताऽसि || त्वमेव केवलं धर्ताऽसि || त्वमेव केवलं हर्ताऽसि || त्वमेव सर्वं खल्विदं ब्रह्मासि || त्वं साक्षादात्माऽसि नित्यम् ||१|| ऋतं वच्मि || सत्यं वच्मि ||२|| अव त्वं मां || अव वक्तारं || अव श्रोतारं || अव दातारं || अव धातारं || अवानूचानमव शिष्यं || अव पश्चात्तात् || अव पुरस्तात् || अवोत्तरात्तात् || अव दक्षिणात्तात् || अव चोर्ध्वात्तात् || अवाधरात्तात् || सर्वतो मां पाहि पाहि समंतात् ||३|| त्वं वाङ्‌मयस्त्वं चिन्मय: || त्वमानंदमयस्त्वं ब्रह्ममय: || त्वं सच्चिदानंदाद्वितीयोऽसि || त्वं प्रत्यक्षं ब्रह्मासि || त्वं ज्ञानमयोविज्ञानमयोऽसि ||४|| सर्वं जगदिदं त्वत्तो जायते || सर्वं जगदिदं त्वत्तस्तिष्ठति || सर्वं जगदिदं त्वयि लयमेष्यति || सर्वं जगदिदं त्वयि प्रत्येति || त्वं भूमिरापोऽनलोऽनिलो नभ: || त्वं चत्वारि वाक्पदानि ||५|| त्वं गुणत्रयातीत: || त्वं देहत्रयातीत: || त्वं कालत्रयातीत: || त्वं मूलाधारस्थितोऽसि नित्यं || त्वं शक्तित्रयात्मक: || त्वां योगिनो ध्यायन्ति नित्यं || त्वं ब्रहमा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुव: स्वरोम् ||६|| गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरं || अनुस्वार: परतर:|| अर्धेन्दुलसितं || तारेण ऋद्धं || एतत्तव मनुस्वरूपं || गकार: पूर्वरूपं || अकारो मध्यमरूपं || अनुस्वारश्चान्त्यरूपं || बिंदुरुत्तररूपम् || नादः संधानं || स हिता संधिः || सैषा गणेशविद्या || गणकऋषि: || निचृद्‌गायत्रीच्छंदः || गणपतिर्देवता || ॐ गं गणपतये नम: ||७|| एकदंताय विद्महे | वक्रतुंडाय धीमहि || तन्नो दंती प्रचोदयात् ||८|| एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् || रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् || रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् || रक्तगंधानुलिप्तांगं रक्तपुष्पै: सुपूजितम् || भक्तानुकंपिनं देवं जगत्कारणमच्युतम् || आविर्भूतं च सृष्ट्यादौ प्रकृते: पुरुषात्परम् || एवं ध्यायति यो नित्यं स योगी योगिनां वर: ||९|| नमो व्रातपतये | नमो गणपतये नम: प्रमथपतये || नमस्तेऽस्तु लंबोदरायैकदंताय || विघ्ननाशिने शिवसुताय || श्रीवरदमूर्तये नम: || १०||
फलश्रुति
एतदथर्वशीर्षं योऽधीते || स ब्रह्मभूयाय कल्पते || स् सर्वविघ्नैर्न बाध्यते || स सर्वत: सुखमेधते || स पञ्चमहापापात्प्रमुच्यते || सायमधीयानो दिवसकृतं पापं नाशयति || प्रातरधीयानो रात्रिकृतं पापं नाशयति || सायंप्रात: प्रयुंजानो अपापो भवति || सर्वत्राधीयानोऽपविघ्नो भवति || धर्मार्थकाममोक्षं च विंदति || इदम्‌अथर्वशीर्षमशिष्याय न देयम्‌ || यो यदि मोहाद्दास्यति स पापीयान्‌ भवति | सहस्त्रावर्तनात्‌ यं यं काममधीते तं तमनेन साधयेत्‌ ||११|| अनेन गणपतिमभिषिंचति || स वाग्मी भवति || चतुर्थ्यामनश्चन्‌ जपति || स विद्यावान्् भवति || इत्यथर्वणवाक्यं | ब्रह्माद्यावरणं विद्यात्‌ | न बिभेति कदाचनेति ||१२|| यो दूर्वांकुरैर्यजति || स वैश्रवणोपमो भवति || यो लार्जैर्यजति स यशोवान्् भवति || स मेधावान्् भवति || यो मोदकसहस्त्रेण यजति || स वांछितफलमवाप्नोति || यः साज्यसमिदभिर्यजति || स सर्व लभते स सर्व लभते ||१३|| अष्टौ ब्राह्मणान्‌ समम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति || सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त््वा सिद्धमंत्रो भवति || महाविघ्नात्प्रमुच्यते || महादोषात्प्रमुच्यते || महापापात्् प्रमुच्यते || स सर्वविद्भवति स सर्वविद्भवति || य एवं वेद इत्युपनिषत्‌ ||१४||
ॐ सह नाववतु || सह नौ भुनक्तु || सह वीर्यं करवावहै || तेजस्विनावधीतमस्तु मा विद्विषावहै ||
ॐ भद्रं कर्णेभि: शृणुयाम देवा: | भद्रं पश्येमाक्षभिर्यजत्रा: || स्थिरैरंगैस्तुष्टुवांसस्तनूभि: | व्यशेम देवहितं यदायु: ||१|| ॐ स्वस्ति न इंद्रो वृद्धश्रवा: | स्वस्ति न: पूषा विश्ववेदाः || स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु ||२||
ॐ शांति : शांतिः शांति :

लेबल: ,

 
प्रेषक : साईट प्रबंधन सोमवार, 19 मार्च 2007 4:03 pm.